|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.115. अध्यायः 115
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेणि युधिष्ठिरम्प्रति गोदानफलप्रशंसनपूर्वकं वसिष्ठवचनाद्गोमहिमावगमेन तद्दातुः सौदासस्य पुण्यलोकप्राप्तिकथनम्॥ 1 ॥

Mahabharata - Anushaasana Parva - Chapter Text
वसिष्ठ उवाच।
घृतक्षीरप्रदा गावो घृतयोन्यो घृतोद्भवाः।
घृतनद्यो घृतावर्तास्ता मे सन्तु सदा गृहे॥ 13-115-1(85961)
घृतं मे हृदये नित्यं घृतं नाभ्यां प्रतिष्ठितम्।
घृतं सर्वेषु गात्रेषु घृतं मे मनसि स्थितम्॥ 13-115-2(85962)
गावो ममाग्रतो नित्यं गावः पृष्ठत एव च।
गावो मे सर्वतश्चैव गवां मध्ये वसाम्यहम्॥ 13-115-3(85963)
इत्याचम्य जपेत्सायं प्रातश्च पुरुषः सदा।
यदह्ना कुरुते पापं तस्मात्स परिमुच्यते॥ 13-115-4(85964)
प्रासादा यत्र सौवर्णा वसोर्धाराश्च कामदाः।
गन्धर्वाप्सरसो यत्र तत्र यान्ति सहस्रदाः॥ 13-115-5(85965)
नवनीतपङ्काः क्षीरोदा दधिशैवलसङ्कुलाः।
वहन्ति यत्र वै नद्यस्तत्र यान्ति सहस्रदाः॥ 13-115-6(85966)
गवां शतसहस्रं तु यः प्रच्छेद्यथाविधि।
परां वृद्धिमवाप्याथ स्वर्गलोके महीयते॥ 13-115-7(85967)
दश चोभयतः प्रेत्य मातापित्रोः पितामहान्।
दधाति सुकृताँल्लोकान्पुनाति च कुलं नरः॥ 13-115-8(85968)
धेन्वाः प्रमाणेन समप्रमाणां
धेनुं तिलानामपि च प्रदाय।
पानीयवापीः स यमस्य लोके
न यातनां काञ्चिदुपैति तत्र॥ 13-115-9(85969)
पवित्रमग्र्यं जगतः प्रतिष्ठा
दिवौकसां मातरोऽथाप्रमेयाः।
अन्वालभेद्दक्षिणतो व्रजेच्च
दद्याच्च पात्रे प्रसमीक्ष्य कालम्॥ 13-115-10(85970)
धेनुं सवत्सां कपिलां भूरिशृङ्गीं
कांस्योपदोहां वसनोत्तरीयाम्।
प्रदाय तां गाहति दुर्विगाह्यां
याम्यां सभां वीतभयो मनुष्यः॥ 13-115-11(85971)
सुरूपा बहुरूपाश्चि विश्वरूपाश्च मातरः।
गावो मामुपतिष्ठन्तामिति नित्यं प्रकीर्तयेत्॥ 13-115-12(85972)
नातः पुण्यतरं दानं नातः पुण्यतरं फलम्।
नातो विशिष्टं लोकेषु भूतं भवितुमर्हति॥ 13-115-13(85973)
त्वचा लोम्नाऽथ शृङ्गैर्वा वालैः क्षीरेण मेदसा।
यज्ञं वहति सम्भूय किमस्त्यभ्यधिकं ततः॥ 13-115-14(85974)
यया सर्वमिदं व्याप्तं जगत्स्थावरजङ्गमम्।
तां धेनुं शिरसा वन्दे भूतभव्यस्य मातरम्॥ 13-115-15(85975)
गुणवचनसमुच्चयैकदेशो
नृवर मयैष गवां प्रकीर्तितस्ते।
न च परमिह दानमस्ति गोभ्यो
भवति न चापि परायणं ततोऽन्यम्॥ 13-115-16(85976)
भीष्म उवाच। 13-115-17x(7124)
वरमिदमिति भूमिपो विचिन्त्य
प्रवरमृषेर्वचनं ततो महात्मा।
व्यसृजत नियतात्मवान्द्विजेभ्यः
सुबहु च गोधनमाप्तवांश्च लोकान्॥ ॥ 13-115-17(85977)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चदशाधिकशततमोऽध्यायः॥ 115 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|